|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.43. अध्यायः 043
Mahabharata - Drona Parva - Chapter Topics
जयद्रथेन रुद्रवरात् व्यूहपथं पिधाय पाण्डवादिनिरोधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-43-0x(4366)(46537)
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्॥ 7-43-1(46538)
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः॥ 7-43-2(46539)
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्॥ 7-43-3(46540)
श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे॥ 7-43-4(46541)
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्॥ 7-43-5(46542)
स विष्फार्य महच्चापं किरन्निषुगणान्बहून।
तत्कण्डं पूरयामास यदार्जुनिरदारयत्॥ 7-43-6(46543)
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः॥ 7-43-7(46544)
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः॥ 7-43-8(46545)
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्।
इषुजालेन महता तदद्भुतमिवाभवत्॥ 7-43-9(46546)
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्॥ 7-43-10(46547)
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः॥ 7-43-11(46548)
तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्॥ 7-43-12(46549)
सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम्।
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष॥ 7-43-13(46550)
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्।
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी॥ 7-43-14(46551)
ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम्॥ 7-43-15(46552)
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्॥ 7-43-16(46553)
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥ 7-43-17(46554)
यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्॥ 7-43-18(46555)
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः।
तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्॥ ॥ 7-43-19(46556)
इति श्रीमन्महाभारते द्रोणपर्वणि अभमन्युवधपर्वणि त्रयोदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः॥ 43 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-43-5 वरूथं रथवेष्टनम्॥ 5-43-10 आदिश्य एष च्छिनद्मीत्युद्दिश्य॥ 5-43-43 त्रिचत्वारिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|